अभिधानम् / The name

शबलदानमित्यस्य जालस्थानस्याभिधानम् । नानावर्णे शबलशब्दस्य प्रयुज्यमानत्वाद्विचित्राणां संकीर्णानां च विचारालोचनानां दानमित्यर्थः । शबलदानं तु लेओपर्देः सुविदितपुस्तकस्य ज़िबल्दोनेनामधेयस्य संस्कृतीकरणतयापि विवक्ष्यते । तदपि नानाविधानां टिप्पणीरूपाणां निबन्धनानां विपुलं निधानं ज़िबल्दोनेशब्दाभिधेयम् । अदश्च पुस्तकमेतस्मिन् जालवृत्ते विकृतिरूपे प्रकृतीयते ।

The name of this site is śabaladānam, which in Sanskrit means a ‘gift of all different kinds of things’—namely, scattered thoughts and reflections. It is also meant as a translation of the Italian word zibaldone, which also refers to a random assortment of various things, and is best known as the title of Giacomo Leopardi’s book, Pensieri di varia filosofia e bella letteratura, another random assortment of philosophical and philological reflections.

रचयिता / The author

एण्ड्रू आलट इति नाम मे । अहं शिखागोविश्वविद्यालये सहायकाचार्यो ऽस्मि । संस्कृतप्राकृतकर्णाटभाषामयं काव्यं शास्त्रं च मम मुख्याः शोधविषयाः ।

My name is Andrew Ollett. I’m an Assistant Professor at the University of Chicago, and I work mostly on literary and philosophical texts in Sanskrit, Prakrit, and Kannada.